|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.96. अध्यायः 096
Mahabharata - Drona Parva - Chapter Topics
राज्ञां द्वन्द्वयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-96-0x(4511)(48457)
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत॥ 7-96-1(48458)
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्।
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः॥ 7-96-2(48459)
रक्षमाणः स्वथं व्यूहं द्रोणोऽपि सह सैनिकैः।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः॥ 7-96-3(48460)
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः॥ 7-96-4(48461)
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ॥ 7-96-5(48462)
तेषां युद्धं समभवद्दारुणं शोणितोदकम्।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने॥ 7-96-6(48463)
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः॥ 7-96-7(48464)
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः॥ 7-96-8(48465)
तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम्।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्॥ 7-96-9(48466)
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा।
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन॥ 7-96-10(48467)
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्।
ससैन्यो योधयामास गजः प्रतिगजं यथा॥ 7-96-11(48468)
बाह्लीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान्।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे॥ 7-96-12(48469)
अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः।
इन्द्रियाणि यथा देहं शश्वद्देहवतां वर॥ 7-96-13(48470)
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः॥ 7-96-14(48471)
सोऽतिविद्धो बलवता महेष्वासेन धन्विना।
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः॥ 7-96-15(48472)
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः॥ 7-96-16(48473)
तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ।
रजेतुः समरे राजन्पुष्पिताविव किंशुकौ॥ 7-96-17(48474)
अलम्बुसस्तु सङ्क्रुद्धः कृन्तिभोजशरार्दितः।
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः॥ 7-96-18(48475)
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव॥ 7-96-19(48476)
ततस्तौ समरे शूरौ योधयन्तौ परस्परम्।
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा॥ 7-96-20(48477)
शकुनिं रभसं युद्धे कृतवैरं च भारत।
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम्॥ 7-96-21(48478)
तुमुलः स महान्राजन्प्रावर्तत जनक्षयः।
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः॥ 7-96-22(48479)
रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः।
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः॥ 7-96-23(48480)
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः।
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम्॥ 7-96-24(48481)
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम्॥ 7-96-25(48482)
स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः।
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः॥ 7-96-26(48483)
घटोत्कचस्तथा शूरं राक्षसं तमलामुधम्।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम्॥ 7-96-27(48484)
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्।
यादृशं हि पुरावृत्तं रामरावणयोर्मृधे॥ 7-96-28(48485)
ततो युधिष्ठिरो राजा मद्रराजानमाहवे।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः॥ 7-96-29(48486)
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः॥ 7-96-30(48487)
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः।
अयोधयन्भीमसेनं महत्या सेनया वृताः॥ ॥ 7-96-31(48488)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षण्णवतितमोऽध्यायः॥ 96 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-96-23 हुताशनः प्रावर्ततेत्यनुषज्यते॥ 5-96-96 षण्णवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|